|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.57. अध्यायः 057
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिराय प्रथमदिने राजधर्मकथनम्॥ 1॥ ततः सायं कृष्णादीनां स्वस्वावासगमनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-57-0x(5473)(67009)
एतत्ते राजधर्माणां नवनीतं युधिष्ठिर।
बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति॥ 12-57-1(67010)
विशालाक्षश्च भगवान्काव्यश्चैव महातपाः।
सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः॥ 12-57-2(67011)
भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः।
राजशास्त्रप्रणेतारो ब्राह्मणा ब्रह्मवादिनः॥ 12-57-3(67012)
रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर।
राज्ञां राजीवताम्राक्ष साधनं चात्र मे शृणु॥ 12-57-4(67013)
चारश्च प्रणिधिश्चैव काले दानममत्सरः।
युक्त्या दानं न चादानमयोगेन युधिष्ठिर॥ 12-57-5(67014)
सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम्।
अनार्जवैरार्जवैश्च शत्रुपक्षाविवर्धनम्॥ 12-57-6(67015)
केतनानां च जीर्णानामवेक्षा चैव सीदताम्।
द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः॥ 12-57-7(67016)
साधूनामपरित्यागः कुलीनानां च धारणम्।
निचयश्च निचेयानां सेवा बुद्धिमतामपि॥ 12-57-8(67017)
बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम्।
कार्येष्वखेदः कोशस्य तथैव च विवर्धनम्॥ 12-57-9(67018)
पुरगुप्तिरविश्वासः पौरसंघातभेदनम्।
अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम्॥ 12-57-10(67019)
उपजापश्च भृत्यानामात्मनः पुरदर्शनम्।
अविश्वासः स्वयं चैव परस्याश्वासनं तथा॥ 12-57-11(67020)
नीतिवर्त्मानुसारेण नित्यमुत्थानमेव च।
रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम्॥ 12-57-12(67021)
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत।
राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे॥ 12-57-13(67022)
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः।
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च॥ 12-57-14(67023)
उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति।
उत्थानवीरान्वाग्वीरा रमयन्त उपासते॥ 12-57-15(67024)
उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः।
प्रधर्षणीयः शत्रूणां भुजङ्ग इव निर्विषः॥ 12-57-16(67025)
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा।
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च॥ 12-57-17(67026)
एकाङ्गेनापि संभूतः शत्रुर्दुर्गमुपाश्रितः।
सर्वं तापयते देशमपि राज्ञः समृद्धिनः॥ 12-57-18(67027)
राज्ञो रहस्यं यद्वाक्यं जयार्थे लोकसंग्रहः।
हृदि यच्चास्य जिह्नं स्यात्कारणार्थं च यद्भवेत्॥ 12-57-19(67028)
यच्चास्य कार्यं वृजिनं मार्दवेनैव धार्यते।
रञ्जनार्थं च लोकस्य धर्मिष्ठामाचरेत्क्रियाम्॥ 12-57-20(67029)
राज्यं हि सुमहत्तत्र दुर्धार्यमकृतात्मभिः।
न शक्यं मृदुना वोदुमाघातस्थानमुल्वणम्॥ 12-57-21(67030)
राज्यं सर्वामिषं नित्यमार्जवेनैव धार्यते।
तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर॥ 12-57-22(67031)
यद्यप्यस्य विपक्तिः स्याद्रक्षमाणस्य वै प्रजाः।
सोप्यस्य विपुलो धर्म एवं वृत्ता हि भूमिपाः॥ 12-57-23(67032)
एष ते राजधर्माणां लेशः समनुवर्णितः।
भूयस्ते यत्र संदेहस्तद्ब्रूहि कुरुसत्तम॥ 12-57-24(67033)
वैशम्पायन उवाच। 12-57-25x(5474)
ततो व्यासश्च भगवान्देवस्थानोऽश्म एव च।
वासुदेवः कृपश्चैव सात्यकिः सञ्जयस्तथा॥ 12-57-25(67034)
साधुसाध्विति संहृष्टा घुष्यमाणैरिवाननैः।
अस्तुवंश्च नरव्याघ्रं भीष्मं धर्मभृतां वरम्॥ 12-57-26(67035)
ततो दीनमना भीष्ममुवाच कुरुनन्दनः।
नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन्॥ 12-57-27(67036)
श्व इदानीं स्वसंदेहं प्रवक्ष्यामि पितामह।
उपैति सविता ह्यस्तं रसमापीय पार्थिवम्॥ 12-57-28(67037)
ततो द्विजातीनभिवाद्य केशवः।
कृपश्च ते चैव युधिष्ठिरादयः।
प्रदक्षिणीकृत्य महानदीसुतं
ततो रथानारुरुहुर्मुदान्विताः॥ 12-57-29(67038)
दृषद्वतीं चाप्यवगाह्य सुव्रताः।
कृतोदकार्थाः कृतजप्यमङ्गलाः।
उपास्य संध्यां विधिवत्परंतपा
स्ततः पुरं ते विविशुर्गजाह्वयम्॥ ॥ 12-57-30(67039)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तपञ्चाशोऽध्यायः॥ 57॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-57-1 एतद्रक्षणं नवनीतं नवनीतवत्सर्वधर्मसारम्। न्याय्यं धर्मं प्रशंसतीति झ. पाठः॥ 12-57-5 चारो गुप्तस्पशः। प्रणिधिः प्रकटस्पशः। दानं भक्तवेतनयोः युक्तेरादानम्। अयोगेनानुपायेन आदानं करग्रहणं नच॥ 12-57-7 केतनानां गृहादीनाम्। द्विविधस्य शारीरदण्डोऽर्थदण्डश्चेति भेदात्॥ 12-57-8 निचेयानां संग्राह्याणां धान्यादीनां निचयः संग्रहः॥ 12-57-10 अविश्वासो यामिकादीनामपि॥ 12-57-11 अविश्वासो भृत्यानामेव॥ 12-57-12 उत्थानमुद्योगः। अनार्यं हीनकर्म कदर्यत्वादि तद्वर्जनम्॥ 12-57-15 वाग्वीरान् पण्डितान्। उत्थानमेव महत्पाण़्डित्यमित्यर्थः॥ 12-57-18 एकाङ्गेन हस्त्यश्वरथपादातानामन्यतमेनापि संभूतः संपन्नः। समृद्धिनः समृद्धिमतः॥ 12-57-21 अकृतात्मभिः क्रूरैः॥ 12-57-22 मिश्रेण क्रौर्यमार्दवाभ्याम्॥ 12-57-28 प्रक्ष्यामि त्वां पितामह इति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|